वांछित मन्त्र चुनें

ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

अंग्रेज़ी लिप्यंतरण

etāvān asya mahimāto jyāyām̐ś ca pūruṣaḥ | pādo sya viśvā bhūtāni tripād asyāmṛtaṁ divi ||

पद पाठ

ए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः । पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥ १०.९०.३

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:3 | अष्टक:8» अध्याय:4» वर्ग:17» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एतावान् महिमा-अस्य) यह जड़-जङ्गम प्रसार या संसार इस परम पुरुष परमात्मा का महिमा-महत्त्वसूचक व्यापार है (अतः-ज्यायान् पूरुषः) इससे बड़ा वह परमात्मा है (विश्वा भूतानि-अस्य पादः) साड़ी जड़-जङ्गम वस्तुएँ इसके पादमात्र हैं (अस्य त्रिपात्) इस परमात्मा का त्रिपाद्रूप (दिवि-अमृतम्) प्रकाशमय स्वरूप में अमृत है ॥३॥
भावार्थभाषाः - सारा संसार उसके एकदेश में है, वह परमात्मा इससे महान् है, तथा ये सारी जड़-जङ्गम वस्तुएँ उसके एक पादमात्र हैं, उसका अमृतस्वरूप त्रिपाद तो प्रकाशस्वरूप में है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एतावान्-महिमा-अस्य) एतावान् जडजङ्गमरूपः प्रसारः संसारो वाऽस्य परमपुरुषस्य परमात्मनो महिमा महत्त्वसूचको व्यापारः (अतः-ज्यायान् पूरुषः) अस्माज्ज्येष्ठः स परमात्मा (विश्वा-भूतानि-अस्य पादः) सर्वाणि भूतानि जडजङ्गमानि वस्तूनि खल्वस्य पाद एव (अस्य त्रिपात्-दिवि-अमृतम्) अस्य परमात्मनस्त्रिपाद्रूपं द्योतनात्मके स्वरूपेऽमृतं विद्यते ॥३॥